मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३५, ऋक् ७

संहिता

श्रेष्ठं॑ नो अ॒द्य स॑वित॒र्वरे॑ण्यं भा॒गमा सु॑व॒ स हि र॑त्न॒धा असि॑ ।
रा॒यो जनि॑त्रीं धि॒षणा॒मुप॑ ब्रुवे स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

पदपाठः

श्रेष्ठ॑म् । नः॒ । अ॒द्य । स॒वि॒तः॒ । वरे॑ण्यम् । भा॒गम् । आ । सु॒व॒ । सः । हि । र॒त्न॒ऽधाः । असि॑ ।
रा॒यः । जनि॑त्रीन् । धि॒षणा॑म् । उप॑ । ब्रु॒वे॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

हे सवितस्त्वं अद्यास्मिन्नहनि नोस्मभ्यं वरेण्यं वरणीयं श्रेष्ठं प्रशस्यतमं भागं भजनीयं धनं आसुव प्रेरय देहीत्यर्थः । हि यस्मात् प्रार्थितस्त्वं रत्नधाः श्रेष्ठानां धनानां संविभक्ता- ऽसि भवसि । तथाच निगमांतरं—विभक्तारंहवामहेवसोश्चित्रस्यराधसः । सवितारंनृचक्ष- समिति । रायोधनस्य जनित्रीं धिषणां सर्वदेवस्तुतिरूपां वाचमुपब्रुवे अहमुपब्रवामि । यद्वा धिषणां देवीं उपस्तौमीत्यर्थः । सिद्धमन्यत् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः