मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३५, ऋक् ८

संहिता

पिप॑र्तु मा॒ तदृ॒तस्य॑ प्र॒वाच॑नं दे॒वानां॒ यन्म॑नु॒ष्या॒३॒॑ अम॑न्महि ।
विश्वा॒ इदु॒स्राः स्पळुदे॑ति॒ सूर्य॑ः स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

पदपाठः

पिप॑र्तु । मा॒ । तत् । ऋ॒तस्य॑ । प्र॒ऽवाच॑नम् । दे॒वाना॑म् । यत् । म॒नु॒ष्याः॑ । अम॑न्महि ।
विश्वाः॑ । इत् । उ॒स्राः । स्पट् । उत् । ए॒ति॒ । सूर्यः॑ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

यदृस्य यज्ञस्य सत्यस्य वा संबंधि देवानां प्रवाचनं प्रकर्षेण गुणानां कथनं स्तोत्रं मनुष्यावयममन्महि कर्तुं जानीमः तत्प्रवाचनं मा मां पिपर्तु पालयतु । किंच सूर्यो- विश्वाः सर्वाउस्राः उषसः स्पट् स्पृशन्नवगच्छन् वोदेति उदेतु । सिद्धमन्यत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः