मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३५, ऋक् ९

संहिता

अ॒द्वे॒षो अ॒द्य ब॒र्हिष॒ः स्तरी॑मणि॒ ग्राव्णां॒ योगे॒ मन्म॑न॒ः साध॑ ईमहे ।
आ॒दि॒त्यानां॒ शर्म॑णि॒ स्था भु॑रण्यसि स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

पदपाठः

अ॒द्वे॒षः । अ॒द्य । ब॒र्हिषः॑ । स्तरी॑मणि । ग्राव्णा॑म् । योगे॑ । मन्म॑नः । साधे॑ । ई॒म॒हे॒ ।
आ॒दि॒त्याना॑म् । शर्म॑णि । स्थाः । भु॒र॒ण्य॒सि॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

अद्यास्मिन्नहनि बर्हिषस्तरीमणि वेद्यां स्तरणे मन्मनोमननीयस्याभीष्टस्य फलस्य सा- धे साधके ग्राव्णामभिषवपाषाणानां योगे सोमेन सह संयोगे च सत्यद्वेषोद्वेषवर्जिताना- दित्यानीमहे वयमभीष्टं याचामहे । हे स्तोतस्त्वं तेषामादित्यानां देवानां शर्मणि सुखे स्थाने वा स्थास्तिष्ठ भुरण्यसि कर्तव्यानि कर्माणि बिभर्षि गच्छसि । सिद्धमन्यत् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः