मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३६, ऋक् २

संहिता

द्यौश्च॑ नः पृथि॒वी च॒ प्रचे॑तस ऋ॒ताव॑री रक्षता॒मंह॑सो रि॒षः ।
मा दु॑र्वि॒दत्रा॒ निरृ॑तिर्न ईशत॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

पदपाठः

द्यौः । च॒ । नः॒ । पृ॒थि॒वी । च॒ । प्रऽचे॑तसा । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । र॒क्ष॒ता॒म् । अंह॑सः । रि॒षः ।
मा । दुः॒ऽवि॒दत्रा॑ । निःऽऋ॑तिः । नः॒ । ई॒श॒त॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

प्रचेतसा सुबुद्धी ऋतावरी यज्ञवत्यौ सत्यवत्यौ च द्यौश्चपृथिवी च द्यावापृथिव्यावुभे नोस्मान् रिषोहिंसकादंहसः पापाच्च रक्षताम् । किच दुर्विदत्रा कुत्सितज्ञाना निरृतिः मृत्यु देवता नोस्माकं माईशत ईश्वरी माभूत् । किंच वयं देवानां संबंधि तदसाधारणं अवोरक्ष णमद्यास्मिन्नहनि प्रधानयागदिवसे वृणीमहे प्रार्थयामहे ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः