मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३६, ऋक् ३

संहिता

विश्व॑स्मान्नो॒ अदि॑तिः पा॒त्वंह॑सो मा॒ता मि॒त्रस्य॒ वरु॑णस्य रे॒वतः॑ ।
स्व॑र्व॒ज्ज्योति॑रवृ॒कं न॑शीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

पदपाठः

विश्व॑स्मात् । नः॒ । अदि॑तिः । पा॒तु॒ । अंह॑सः । मा॒ता । मि॒त्रस्य॑ । वरु॑णस्य । रे॒वतः॑ ।
स्वः॑ऽवत् । ज्योतिः॑ । अ॒वृ॒कम् । न॒शी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

रेवतोधनवतोमित्रस्य वरुणस्य च धनवतोर्मित्रावरुणयोर्माता जनन्यदितिर्देवी नोस्मान् विश्वस्मात्सर्वस्मादंहसः पापात्पातु रक्षतु । किंच वयमवृकं बाधकरहितं स्वर्वत् सर्वं ज्यो- तिस्तेजोनशीमहि नशिः पलायनकर्मा पलायनं च शीघ्रगमनं शीघ्रं प्राप्नुमइत्यर्थः । सिद्ध- मन्यत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः