मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३६, ऋक् ४

संहिता

ग्रावा॒ वद॒न्नप॒ रक्षां॑सि सेधतु दु॒ष्ष्वप्न्यं॒ निरृ॑तिं॒ विश्व॑म॒त्रिण॑म् ।
आ॒दि॒त्यं शर्म॑ म॒रुता॑मशीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

पदपाठः

ग्रावा॑ । वद॑न् । अप॑ । रक्षां॑सि । से॒ध॒तु॒ । दुः॒ऽस्वप्न्य॑म् । निःऽऋ॑तिम् । विश्व॑म् । अ॒त्रिण॑म् ।
आ॒दि॒त्यम् । शर्म॑ । म॒रुता॑म् । अ॒शी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

ग्रावाभिषवपाषाणोवदन्नभिषववेलायां शब्दं कुर्वन् रक्षांसि यागविघ्नकारीण्यपसेधतु विनिवारयतु दुःखप्न्यं दुःस्वप्नप्रभवमस्मदीयमनिष्टं चापसेधतु निरृतिं मृत्युदेवतांचापसे- धतु अत्रिणं अदनशीलंविश्वं सर्वं पिशाचादिकं चापसेधतु एवं निर्विघ्नेन निष्पन्ने यागे वयमादित्यमादित्यानां मरुतां च संबंध्नि शर्म सुखं अश्मिहि प्राप्नुयाम । सिद्धमन्यत् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः