मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३६, ऋक् ५

संहिता

एन्द्रो॑ ब॒र्हिः सीद॑तु॒ पिन्व॑ता॒मिळा॒ बृह॒स्पति॒ः साम॑भिरृ॒क्वो अ॑र्चतु ।
सु॒प्र॒के॒तं जी॒वसे॒ मन्म॑ धीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

पदपाठः

आ । इन्द्रः॑ । ब॒र्हिः । सीद॑तु । पिन्व॑ताम् । इळा॑ । बृह॒स्पतिः॑ । साम॑ऽभिः । ऋ॒क्वः । अ॒र्च॒तु॒ ।
सु॒ऽप्र॒के॒तम् । जी॒वसे॑ । मन्म॑ । धी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

इंद्रोबर्हिरासीदतु इळामाध्यमिका स्तनयित्नुलक्षणा वागपि पिन्वतां प्रीणयतु । किंतु सामभिर्गायमाने ऋक्वः स्तुतिमान् बृहस्पतिरप्यर्चतु अस्मान् पूजयतु । किंच वयं सुप्रके- तं सुप्रज्ञानं मन्म मननीयं धनं स्तोत्रं वा धीमहि निधीमहि जीवसे जीवनाय । सिद्ध- मन्यत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः