मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३६, ऋक् ६

संहिता

दि॒वि॒स्पृशं॑ य॒ज्ञम॒स्माक॑मश्विना जी॒राध्व॑रं कृणुतं सु॒म्नमि॒ष्टये॑ ।
प्रा॒चीन॑रश्मि॒माहु॑तं घृ॒तेन॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

पदपाठः

दि॒वि॒ऽस्पृश॑म् । य॒ज्ञम् । अ॒स्माक॑म् । अ॒श्वि॒ना॒ । जी॒रऽअ॑ध्वरम् । कृ॒णु॒त॒म् । सु॒म्नम् । इ॒ष्टये॑ ।
प्रा॒चीन॑ऽरश्मिम् । आऽहु॑तम् । घृ॒तेन॑ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

हे अश्विना अश्विनौ युवां नोस्माकं यज्ञं दिविस्पृशं दिविस्पष्टारं गंतारं कृणुतं कुरुतं तथा । जीराध्वरं क्षिप्रं हिंसारहितं च यज्ञं नोस्माकं कृणुतं इष्ट्येभिलषितसिद्धार्थं सुम्नं सुखं च कुरुतम् । किंच घृतेनाज्येनाहुतमग्निं प्राचीनरश्मिं देवाभिमुखं कुरुतमित्यर्थः सिद्ध- मन्यत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०