मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३६, ऋक् ७

संहिता

उप॑ ह्वये सु॒हवं॒ मारु॑तं ग॒णं पा॑व॒कमृ॒ष्वं स॒ख्याय॑ श॒म्भुव॑म् ।
रा॒यस्पोषं॑ सौश्रव॒साय॑ धीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

पदपाठः

उप॑ । ह्व॒ये॒ । सु॒ऽहव॑म् । मारु॑तम् । ग॒णम् । पा॒व॒कम् । ऋ॒ष्वम् । स॒ख्याय॑ । श॒म्ऽभुव॑म् ।
रा॒यः । पोष॑म् । सौ॒श्र॒व॒साय॑ । धी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

सुहवं स्वाह्वानं पावकं शोधकं ऋष्वं दर्शनीयं शंभवं सुखस्य भावयितारं रायोधन- स्य पोषं पोषकं मारुतं मरुतां संबंधिनं गणं संघं सख्याय सखिभावायोपह्वये उपगम्य ह्वयामि आगतं गणं सौश्रवसाय शोभनान्नवत्वाय सुयशस्त्वाय वा वयं धीमहि बुद्धौ निधीमहि । सिद्धमन्यत् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०