मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३६, ऋक् १०

संहिता

ये स्था मनो॑र्य॒ज्ञिया॒स्ते शृ॑णोतन॒ यद्वो॑ देवा॒ ईम॑हे॒ तद्द॑दातन ।
जैत्रं॒ क्रतुं॑ रयि॒मद्वी॒रव॒द्यश॒स्तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

पदपाठः

ये । स्थाः । मनोः॑ । य॒ज्ञियाः॑ । ते । शृ॒णो॒त॒न॒ । यत् । वः॒ । दे॒वाः॒ । ईम॑हे । तत् । द॒दा॒त॒न॒ ।
जैत्र॑म् । क्रतु॑म् । र॒यि॒मत् । वी॒रऽव॑त् । यशः॑ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

हे देवा ये यूयं मनोर्मनुष्यस्य यज्ञियायज्ञार्हाः स्थ भवथ ते यूयं शृणातनास्मदीयां स्तुतिं शृणुत । किंच हे देवावोयुष्मान् यदभीष्टमीमहे याचामहे तत् जैत्रं जयशीलं क्रतुं प्रज्ञानं रयिमत् धनवत् वीरवत् पुत्राद्युपेतं यशश्च ददातनास्मभ्यं प्रयच्छत । सिद्धमन्य- त् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०