मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३६, ऋक् १२

संहिता

म॒हो अ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना॑गा मि॒त्रे वरु॑णे स्व॒स्तये॑ ।
श्रेष्ठे॑ स्याम सवि॒तुः सवी॑मनि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

पदपाठः

म॒हः । अ॒ग्नेः । स॒म्ऽइ॒धा॒नस्य । शर्म॑णि । अना॑गाः । मि॒त्रे । वरु॑णे । स्व॒स्तये॑ ।
श्रेष्ठे॑ । स्या॒म॒ । स॒वि॒तुः । सवी॑मनि । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

समिधानस्य समिध्यमानस्य महोमहतोग्नेः शर्मं स्याम भवेम । किंच वयमनागाअनाग- सोवचनव्यत्ययः स्याम । अपिच मित्रे वरुणे मित्रोवरुणयोः षष्ठ्यर्थे सप्तमी सवितुश्च श्रेष्ठेऽतिप्रशस्ये सवीमनि प्रसवे स्वस्तये सर्वप्रकाराविनाशाय स्याम । सिद्धमन्यत् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११