मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३८, ऋक् १

संहिता

अ॒स्मिन्न॑ इन्द्र पृत्सु॒तौ यश॑स्वति॒ शिमी॑वति॒ क्रन्द॑सि॒ प्राव॑ सा॒तये॑ ।
यत्र॒ गोषा॑ता धृषि॒तेषु॑ खा॒दिषु॒ विष्व॒क्पत॑न्ति दि॒द्यवो॑ नृ॒षाह्ये॑ ॥

पदपाठः

अ॒स्मिन् । नः॒ । इ॒न्द्र॒ । पृ॒त्सु॒तौ । यश॑स्वति । शिमी॑ऽवति । क्रन्द॑सि । प्र । अ॒व॒ । सा॒तये॑ ।
यत्र॑ । गोऽसा॑ता । धृ॒षि॒तेषु॑ । खा॒दिषु॑ । विष्व॑क् । पत॑न्ति । दि॒द्यवः॑ । नृ॒ऽसह्ये॑ ॥

सायणभाष्यम्

हे इंद्र त्वं यशस्वति कीर्तिमति शिमीवति परस्परप्रहारलक्षणकर्मवति अस्मिन्नुपस्थि- ते पृत्सुतौ संग्रामे क्रंदसि सिंहनादं करोषि । सातये धनलाभाय प्राव नः अस्मान् प्ररक्ष- सि च । कस्मिन्नित्यत्राह यत्र यस्मिन् गोषाता गोसातौ लब्धपशुके भृषाह्ये नृणामभिभा- वुके च संग्रामे खादिषु परस्परखादकेषु च योद्दृषु धृषितेषु धृष्टेषु सत्सु दिद्यवः आयु धानि विष्वक् सर्वतः पतंति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४