मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३८, ऋक् ४

संहिता

यो द॒भ्रेभि॒र्हव्यो॒ यश्च॒ भूरि॑भि॒र्यो अ॒भीके॑ वरिवो॒विन्नृ॒षाह्ये॑ ।
तं वि॑खा॒दे सस्नि॑म॒द्य श्रु॒तं नर॑म॒र्वाञ्च॒मिन्द्र॒मव॑से करामहे ॥

पदपाठः

यः । द॒भ्रेभिः॑ । हव्यः॑ । यः । च॒ । भूरि॑ऽभिः । यः । अ॒भीके॑ । व॒रि॒वः॒ऽवित् । नृ॒ऽसह्ये॑ ।
तम् । वि॒ऽखा॒दे । सस्नि॑म् । अ॒द्य । श्रु॒तम् । नर॑म् । अ॒र्वाञ्च॑म् । इन्द्र॑म् । अव॑से । क॒रा॒म॒हे॒ ॥

सायणभाष्यम्

नृसह्ये नॄणामभिभावुके विखादे विशेषण भक्षके अभीके संग्रामे वरिवोवित् धनस्य लंभकोयइंद्रोदभ्रेभिः स्वल्पैव्योह्वातव्योयश्च भूरिभिः बहुभिः हव्यः तं सस्निं शुचिं श्रुतं सर्वत्र विख्यातं नरंनेतारमिंद्रं अद्यास्मिन्नहनि अवसेस्मद्रक्षणाय अर्वांचमस्मदभिमुखं क- रामहे कुर्मः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४