मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३९, ऋक् ३

संहिता

अ॒मा॒जुर॑श्चिद्भवथो यु॒वं भगो॑ऽना॒शोश्चि॑दवि॒तारा॑प॒मस्य॑ चित् ।
अ॒न्धस्य॑ चिन्नासत्या कृ॒शस्य॑ चिद्यु॒वामिदा॑हुर्भि॒षजा॑ रु॒तस्य॑ चित् ॥

पदपाठः

अ॒मा॒ऽजुरः॑ । चि॒त् । भ॒व॒थः॒ । यु॒वम् । भगः॑ । अ॒ना॒शोः । चि॒त् । अ॒वि॒तारा॑ । अ॒प॒मस्य॑ । चि॒त् ।
अ॒न्धस्य॑ । चि॒त् । ना॒स॒त्या॒ । कृ॒शस्य॑ । चि॒त् । यु॒वाम् । इत् । आ॒हुः॒ । भि॒षजा॑ । रु॒तस्य॑ । चि॒त् ॥

सायणभाष्यम्

हे नासत्या नासत्यौ युवं युवां अमाजुरश्चित् पितृगृहे जूर्यन्त्याअपि दुर्भगायाघोषायाः भगोभवथः शोभनरूपेणात्मानं परिणमय्य पतिं दत्तवंतौ स्थइत्यर्थः । तथा च निगमांतरं- घोषायैचित्पितृषदेदुरोणेपतिंजूर्यंत्याअश्विनावदत्तमिति । अनाशोश्चित् अनशनस्याप्यवितारा रक्षितारौ युवां भवथः अपमस्य चित् जात्यादिनिकृष्टस्यापि रक्षितारौ भवथः अंधस्य चित् चक्षुर्विकलस्यापि रक्षितारौ भवथः कृशस्य चित् दुर्बलस्यापि रक्षितारौ भवथः । किंच युवामित् युवामेव ऋतस्यचित् यज्ञस्यापि भिषजा भिषजौ वैद्यावाहुर्विद्वांसः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५