मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३९, ऋक् ५

संहिता

पु॒रा॒णा वां॑ वी॒र्या॒३॒॑ प्र ब्र॑वा॒ जनेऽथो॑ हासथुर्भि॒षजा॑ मयो॒भुवा॑ ।
ता वां॒ नु नव्या॒वव॑से करामहे॒ऽयं ना॑सत्या॒ श्रद॒रिर्यथा॒ दध॑त् ॥

पदपाठः

पु॒रा॒णा । वा॒म् । वी॒र्या॑ । प्र । ब्र॒व॒ । जने॑ । अथो॒ इति॑ । ह॒ । आ॒स॒थुः॒ । भि॒षजा॑ । म॒यः॒ऽभुवा॑ ।
ता । वा॒म् । नु । नव्यौ॑ । अव॑से । क॒रा॒म॒हे॒ । अ॒यम् । ना॒स॒त्या॒ । श्रत् । अ॒रिः । यथा॑ । दध॑त् ॥

सायणभाष्यम्

हे अश्विनौ वां युवयोः पुराणा पुराणानि वीर्या वीर्याणि जने लोके प्रब्रव प्रब्रवीमि । अथो अपिच हे नासत्या नासत्यौ युवां मयोभुवा सुखस्य भावयितारौ भिषजा भिषजौ वैद्यौ आसथुः बभूवथुः ता तौ वां युवामवसे रक्षणाय नव्यौ स्तुत्यौ नु क्षिप्रं करामहे कुर्मः अयम रिर्गंता पतिः यजमानोयथा श्र्द्दधत् श्रद्दध्यादिति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५