मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३९, ऋक् १३

संहिता

ता व॒र्तिर्या॑तं ज॒युषा॒ वि पर्व॑त॒मपि॑न्वतं श॒यवे॑ धे॒नुम॑श्विना ।
वृक॑स्य चि॒द्वर्ति॑काम॒न्तरा॒स्या॑द्यु॒वं शची॑भिर्ग्रसि॒ताम॑मुञ्चतम् ॥

पदपाठः

ता । व॒र्तिः । या॒त॒म् । ज॒युषा॑ । वि । पर्व॑तम् । अपि॑न्वतम् । श॒यवे॑ । धे॒नुम् । अ॒श्वि॒ना॒ ।
वृक॑स्य । चि॒त् । वर्ति॑काम् । अ॒न्तः । आ॒स्या॑त् । यु॒वम् । शची॑भिः । ग्र॒सि॒ताम् । अ॒मु॒ञ्च॒त॒म् ॥

सायणभाष्यम्

हे अश्विना अश्विनौ ता तौ युवां जयुषा जयशीलेन रथेन पर्वतं अद्रिंप्रति वर्तिमार्गं वियातं विविधं गच्छथः । तथाचनिगमांतरं—विजयुषारथ्यायातमद्रिंश्रुतंहवंवृषणावध्रिमत्या इति । किंच युवं शयवे शयोरर्थाय धेनुं अपिन्वतं निवृत्तप्रसवां वृद्धां गां प्रभूतस्य पयसो दोगध्रीं कृतवंतौ स्थइत्यर्थः । तथाचनिगमांतरं—युवंधेनुंशयवेनाधितायापिन्वतमश्विनापूर्व्या यं । किंच युवं युवां वृकस्यांतरनुप्रविष्टां ग्रसितां वृकेण ग्रस्तां वर्तिकां वर्तिकानाम चटका तामास्यात् वृकस्य मुखात् शचीभिः प्रज्ञाभिः कर्मभिर्वा अमुंचतं अमोचयतं । तथाचनिग- मांतरं—अजोहवीदश्विनावर्तिकावामास्नोयत्सीममुंचतंवृकस्येति ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७