मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४०, ऋक् ५

संहिता

यु॒वां ह॒ घोषा॒ पर्य॑श्विना य॒ती राज्ञ॑ ऊचे दुहि॒ता पृ॒च्छे वां॑ नरा ।
भू॒तं मे॒ अह्न॑ उ॒त भू॑तम॒क्तवेऽश्वा॑वते र॒थिने॑ शक्त॒मर्व॑ते ॥

पदपाठः

यु॒वाम् । ह॒ । घोषा॑ । परि॑ । अ॒श्वि॒ना॒ । य॒ती । राज्ञः॑ । ऊ॒चे॒ । दु॒हि॒ता । पृ॒च्छे । वा॒म् । न॒रा॒ ।
भू॒तम् । मे॒ । अह्ने॑ । उ॒त । भू॒त॒म् । अ॒क्तवे॑ । अश्व॑ऽवते । र॒थिने॑ । श॒क्त॒म् । अर्व॑ते ॥

सायणभाष्यम्

हे नरा नेतारावश्विनौ युवां ह खलु परि परितोयती गच्छंती राज्ञोदीप्तस्यकक्षीवतो- दुहिता पुत्री घोषा घोषाख्या अहमूचे संनिहितेभ्योवृद्धेभ्यः उक्तवत्यस्मि । किंच वां युवां पृच्छे वृद्धान् संनिहितान् कीदृशावश्विनाविति पृच्छामि । तथा सति मे मम अह्ने दिव- साय दिवसनिर्वर्त्यकर्मणे भूतं भवतम् । उतापिच अक्तवे रात्र्यै रात्रिनिर्वर्त्यकर्मणे भूतं भव- तम् । तथाश्वादते अश्वयुक्ताय रथिने रथवतेचार्वते भ्रातृव्याय शक्तं निरसनेशक्तौ भवतं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८