मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४०, ऋक् ९

संहिता

जनि॑ष्ट॒ योषा॑ प॒तय॑त्कनीन॒को वि चारु॑हन्वी॒रुधो॑ दं॒सना॒ अनु॑ ।
आस्मै॑ रीयन्ते निव॒नेव॒ सिन्ध॑वो॒ऽस्मा अह्ने॑ भवति॒ तत्प॑तित्व॒नम् ॥

पदपाठः

जनि॑ष्ट । योषा॑ । प॒तय॑त् । क॒नी॒न॒कः । वि । च॒ । अरु॑हन् । वी॒रुधः॑ । दं॒सनाः॑ । अनु॑ ।
आ । अ॒स्मै॒ । री॒य॒न्ते॒ । नि॒व॒नाऽइ॑व । सिन्ध॑वः । अ॒स्मै । अह्ने॑ । भ॒व॒ति॒ । तत् । प॒ति॒ऽत्व॒नम् ॥

सायणभाष्यम्

हे अश्विनौ युवयोः प्रसादादियं घोषा योषा स्त्रीगुणोपेता सुभगाजनिष्ट जाता अस्याः समीपं कनीनकः कन्याकामः पतिः पतयत् पततु अस्मै कनीनकाय युवयोर्दंसना अनुवृष्टि लक्षणानि कर्माणि लक्षीकृत्य वीरुधः ओषधयोविचारुहन् विरोहन्तु प्रादुर्भवन्तु । अस्मै कनीनकाय निवनेव प्रवणेनेव सिंधवउदकानि आरीयंते अभिगच्छंति तद्वत् तावीरुधोभि- गच्छंतु । किंच अह्ने केनाप्यहंतव्यायास्मै कनीनकाय तत्संभोगसमर्थं पतित्वनं यौवनं भवति भवतु ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९