मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४०, ऋक् १४

संहिता

क्व॑ स्विद॒द्य क॑त॒मास्व॒श्विना॑ वि॒क्षु द॒स्रा मा॑दयेते शु॒भस्पती॑ ।
क ईं॒ नि ये॑मे कत॒मस्य॑ जग्मतु॒र्विप्र॑स्य वा॒ यज॑मानस्य वा गृ॒हम् ॥

पदपाठः

क्व॑ । स्वि॒त् । अ॒द्य । क॒त॒मासु॑ । अ॒श्विना॑ । वि॒क्षु । द॒स्रा । मा॒द॒ये॒ते॒ इति॑ । शु॒भः । पती॒ इति॑ ।
कः । ई॒म् । नि । ये॒मे॒ । क॒त॒मस्य॑ । ज॒ग्म॒तुः॒ । विप्र॑स्य । वा॒ । यज॑मानस्य । वा॒ । गृ॒हम् ॥

सायणभाष्यम्

हे अश्विनाश्विनौ दस्रा दर्शनीयौ शुभस्पती उदकस्य पती स्वामिनौ भवंतौ क्वस्वित् क्वस्थितौ अनपदे अद्यास्मिन्नहनि कतमासु कासु विक्षु प्रजासु मादयेते आत्मानं तर्पयतः । किंच कोयजमानईमेनौ युवां नियेमे नियच्छति । किंच भवंतौ कतमस्य विप्रस्य मेधा- विनः स्तोतुर्वा यजमानस्य वा गृहं जग्मतुः गतवंतौ ॥ १४ ॥

समानमितितृचं द्वादशं सूक्तं घोषायाः पुत्रस्य सुहस्त्यस्यार्षं जागतमाश्विनं अनुक्रांतंच --समानंतृचंसुहस्त्योघौषेयइति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०