मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४१, ऋक् ३

संहिता

अ॒ध्व॒र्युं वा॒ मधु॑पाणिं सु॒हस्त्य॑म॒ग्निधं॑ वा धृ॒तद॑क्षं॒ दमू॑नसम् ।
विप्र॑स्य वा॒ यत्सव॑नानि॒ गच्छ॒थोऽत॒ आ या॑तं मधु॒पेय॑मश्विना ॥

पदपाठः

अ॒ध्व॒र्युम् । वा॒ । मधु॑ऽपाणिम् । सु॒ऽहस्त्य॑म् । अ॒ग्निध॑म् । वा॒ । धृ॒तऽद॑क्षम् । दमू॑नसम् ।
विप्र॑स्य । वा॒ । यत् । सव॑नानि । गच्छ॑थः । अतः॑ । आ । या॒त॒म् । म॒धु॒ऽपेय॑म् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे अश्विनौ युवां मधुपाणिं सोमपाणिमध्वर्युं वा सुहस्त्यं ुहस्त्यनामानमृषिं मां धृत दक्षं धृतबलं दमूनसं दानमनसं अग्निधं वा ऋत्विग्विशेषमायातम् । तदेवदर्शयति—यत् य- द्यपि विप्रस्यान्यस्य मेधाविनः सवनानि यज्ञान् गच्छथः तथाप्यतः तेभ्योयज्ञेभ्योमधुपेय- मस्माकं सोमात्मकं पेयमायातमन्वागच्छतं ॥ ३ ॥

अस्तेवेत्येकादशर्चं त्रयोदशं सूक्तं आंगिरस्य कृष्णाख्यस्यार्षं त्रैष्टुभमैंद्रम् । अनुक्रांतंच—अस्तेवैकादश कृष्णइति । आभिप्लविकेषूक्थेषु स्तोमवृद्धौइदं सूक्तं ब्राह्मणाच्छंसिनआवापा- र्थं सूत्रितंच—यज्ञेदिवइतिसूक्ते अस्तेवसुप्रतरमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१