मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४२, ऋक् १

संहिता

अस्ते॑व॒ सु प्र॑त॒रं लाय॒मस्य॒न्भूष॑न्निव॒ प्र भ॑रा॒ स्तोम॑मस्मै ।
वा॒चा वि॑प्रास्तरत॒ वाच॑म॒र्यो नि रा॑मय जरित॒ः सोम॒ इन्द्र॑म् ॥

पदपाठः

अस्ता॑ऽइव । सु । प्र॒ऽत॒रम् । लाय॑म् । अस्य॑न् । भूष॑न्ऽइव । प्र । भ॒र॒ । स्तोम॑म् । अ॒स्मै॒ ।
वा॒चा । वि॒प्राः॒ । त॒र॒त॒ । वाच॑म् । अ॒र्यः । नि । र॒म॒य॒ । ज॒रि॒त॒रिति॑ । सोमे॑ । इन्द्र॑म् ॥

सायणभाष्यम्

प्रतरं प्रवृद्धतरं लायं संश्लेषणं हृदयवेधिनं शरं सु सुष्ठु अस्यन् क्षिपन् अस्तेव यथा क्षेप्ता धानुष्कोभूषन्निव यथावालंकारमलंकुर्वन्नलंकर्ता तद्वत् स्तोममस्माइंद्राय प्रभर प्राप- य । हे अंतरात्मन् त्वमितिशॆषः । किंच हे विप्रामेधाविनोयूयं वाचा स्तुत्या अर्यः अरेः शत्रोर्वाचं तरत नितरां तरत निराकुरुतइत्यर्थः । हे जरितः स्तातस्त्वं मे सोमयागे इंद्रं निरमय क्रीडय ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२