मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४३, ऋक् १

संहिता

अच्छा॑ म॒ इन्द्रं॑ म॒तयः॑ स्व॒र्विदः॑ स॒ध्रीची॒र्विश्वा॑ उश॒तीर॑नूषत ।
परि॑ ष्वजन्ते॒ जन॑यो॒ यथा॒ पतिं॒ मर्यं॒ न शु॒न्ध्युं म॒घवा॑नमू॒तये॑ ॥

पदपाठः

अच्छ॑ । मे॒ । इन्द्र॑म् । म॒तयः॑ । स्वः॒ऽविदः॑ । स॒ध्रीचीः॑ । विश्वाः॑ । उ॒श॒तीः । अ॒नू॒ष॒त॒ ।
परि॑ । स्व॒ज॒न्ते॒ । जन॑यः । यथा॑ । पति॑म् । मर्य॑म् । न । शु॒न्ध्युम् । म॒घऽवा॑नम् । ऊ॒तये॑ ॥

सायणभाष्यम्

आंगिरसस्य कृष्णस्य मे मम स्वर्विदः सर्वस्य लंभयित्र्यः सध्रीचीः संगताः विश्वाव्या- प्ताः उशतीः कामयमानाः मतयः स्तुतयः इंद्रमच्छानूषत अभिष्टुवंति । किंच जनयोजायाः यथा पतिं भर्तारं मर्यं न यथा च मनुष्यं शुंध्युं शुद्धं दोषरहितं मघवानं धनवंतमूतयेर- क्षणार्थं परिष्वणंते आलिंगंति तद्वदिंद्रं मे स्तुतयः परिष्वजंते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४