मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४४, ऋक् ५

संहिता

गम॑न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या॑हि सो॒मिनः॑ ।
त्वमी॑शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा॑णि॒ धर्म॑णा ॥

पदपाठः

गम॑न् । अ॒स्मे इति॑ । वसू॑नि । आ । हि । शंसि॑षम् । सु॒ऽआ॒शिष॑म् । भर॑म् । आ । या॒हि॒ । सो॒मिनः॑ ।
त्वम् । ई॒शि॒षे॒ । सः । अ॒स्मिन् । आ । स॒त्सि॒ । ब॒र्हिषि॑ । अ॒ना॒धृ॒ष्या । तव॑ । पात्रा॑णि । धर्म॑णा ॥

सायणभाष्यम्

हे इंद्र वसूनि त्वद्देयानि धनानि अस्मे अस्मासु आगमन् आगच्छंतु हि । यस्मात्त्वा- महं शंसिषं स्तौमि । किंच सोमिनः सोमवतोमम स्वाशिषं शोभनाआशिषोयस्मिन् तं भरं यज्ञं आयाहि त्वमागच्छ । किंच त्वमीशिषे धनस्येश्वरोसि एवंविधः सत्वं अस्मिन्नस्मदीये वेद्यास्तृते बर्हिष्यासत्सि आसीद । किंच तव सोमपात्राणि धर्मणा राक्षसानां कर्मणा अनाधृष्य अनाधृष्याणि धर्षयितुमशक्यानि भवंतीतिशेषः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६