मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४५, ऋक् ४

संहिता

अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन् ।
स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥

पदपाठः

अक्र॑न्दत् । अ॒ग्निः । स्त॒नय॑न्ऽइव । द्यौः । क्षाम॑ । रेरि॑हत् । वी॒रुधः॑ । स॒म्ऽअ॒ञ्जन् ।
स॒द्यः । ज॒ज्ञा॒नः । वि । हि । ई॒म् । इ॒द्धः । अख्य॑त् । आ । रोद॑सी॒ इति॑ । भा॒नुना॑ । भा॒ति॒ । अ॒न्तरिति॑ ॥

सायणभाष्यम्

दावरूपोग्निः स्तूयते—अग्निर्दावाग्निः स्तनयन्निव द्यौर्यथा दीप्तोविद्युद्रूपः पर्जन्योमहांतं शब्दं करोति तद्वदक्रंदत् महांतं शब्दं करोति । किंकुर्वन्नित्यत्राह—क्षाम क्षामां पृथिवीं रेरिहत् आस्वादयन् वीरुधः ओषधीश्च समंजन् म्रक्षयन् संतापयन्नित्यर्थः । किंच सद्यः तत्क्षणे समानकाले जज्ञानोजायमानैद्धोदीप्तः ईमिदं स्वेन दग्धं वस्तुजातं व्यख्यत् विवि- धं पश्यति हीति पदपूरणः । किंच रोदसी द्यावापृथिव्यौ अतः अंतरेण भानुना स्वदीप्त्या आभाति प्रकाशते । यद्वा वाजसनयकोत्तार्थोद्रष्टव्यः—तद्यथा अकंददग्निः स्तनयन्निवद्यौरिति क्रंदतिहि पजन्यः स्ततवन्निवद्यौः क्षामारेरिहद्वीरुधः समञ्चन्निति क्षामां वै रेरिह्यमाणो- वीरुधः सम्यग् व्यनक्ति सद्योजज्ञानोविहीमिद्धो अख्यदिति सद्योहवाएषजज्ञानइदं सर्वंवि- ख्यारोदसीभानुनाभात्यतरितीमेवै द्यावापृथिवी रोदसी ते एषभानुना भात्यन्तरिति वैद्यु- तस्यस्तुतिर्यद्वेयं दाअवाग्नेः स्व्तुतिरिति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८