मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४५, ऋक् ९

संहिता

यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे॑व घृ॒तव॑न्तमग्ने ।
प्र तं न॑य प्रत॒रं वस्यो॒ अच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठ ॥

पदपाठः

यः । ते॒ । अ॒द्य । कृ॒णव॑त् । भ॒द्र॒ऽशो॒चे॒ । अ॒पू॒पम् । दे॒व॒ । घृ॒तऽव॑न्तम् । अ॒ग्ने॒ ।
प्र । तम् । न॒य॒ । प्र॒ऽत॒रम् । वस्यः॑ । अच्छ॑ । अ॒भि । सु॒म्नम् । दे॒वऽभ॑क्तम् । य॒वि॒ष्ठ॒ ॥

सायणभाष्यम्

हे भद्रशोचे कल्याणदीप्ते हे देव द्योतमान यविष्ठ युवतमाग्ने ते तुभ्यं योयजमानोद्या स्मिन्नहनि घृतवंतं घृतेन युक्तं अपूपं पुरोडाशं कृणवत् करोति प्रतरं प्रकृष्टतरं यजमानं वस्योवसीयोच्छप्रति प्रनय अत्यर्थं प्रापय । तथा देवभक्तं स्तुतिभिर्हविर्भिश्च देवानां संभ- क्तारं सेवितारं तंयजमानं द्युम्नं सुखमभिप्रति प्रनय ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९