मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४६, ऋक् ७

संहिता

अ॒स्याजरा॑सो द॒माम॒रित्रा॑ अ॒र्चद्धू॑मासो अ॒ग्नयः॑ पाव॒काः ।
श्वि॒ती॒चयः॑ श्वा॒त्रासो॑ भुर॒ण्यवो॑ वन॒र्षदो॑ वा॒यवो॒ न सोमा॑ः ॥

पदपाठः

अ॒स्य । अ॒जरा॑सः । द॒माम् । अ॒रित्राः॑ । अ॒र्चत्ऽधू॑मासः । अ॒ग्नयः॑ । पा॒व॒काः ।
श्वि॒ती॒चयः॑ । श्वा॒त्रासः॑ । भु॒र॒ण्यवः॑ । व॒न॒ऽसदः॑ । वा॒यवः॑ । न । सोमाः॑ ॥

सायणभाष्यम्

अत्र बहुत्वेन स्तूयते। अस्य यजमानस्य सम्बन्धिनोऽजरासो जरारहिता डमां दमनीयानां रक्षः प्रभृतीनाम् । दमेः क्विपि सावेकाच इति विभक्तेरुदात्तत्वम् । तेषामरित्रास्तारका अर्चद्धूमासोऽर्चन्तोऽर्चनीया धूमा धूमोपलक्शिता ज्वाला वा एषां ते तथोक्ताः पावकाः शोधकाः श्वितीचयः श्वेतिमानमञ्चन्तः। श्वितिः श्वेतः। औणादिक इः। श्वात्रासः। क्षिप्रनामैतत्। क्षिप्रधर्मका भुरण्यवो भरणशीला वनर्षदो वनेषु सीदन्तः। संहितायां छान्दसं रुत्वम् । वायवो न सोमा गन्तारः सोमा इव। हविर्दातुर्यजमानस्य शिघ्रा भवन्तीति॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः