मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४७, ऋक् ५

संहिता

अश्वा॑वन्तं र॒थिनं॑ वी॒रव॑न्तं सह॒स्रिणं॑ श॒तिनं॒ वाज॑मिन्द्र ।
भ॒द्रव्रा॑तं॒ विप्र॑वीरं स्व॒र्षाम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑ः ॥

पदपाठः

अश्व॑ऽवन्तम् । र॒थिन॑म् । वी॒रऽव॑न्तम् । स॒ह॒स्रिण॑म् । श॒तिन॑म् । वाज॑म् । इ॒न्द्र॒ ।
भ॒द्रऽव्रा॑तम् । विप्र॑ऽवीरम् । स्वः॒ऽसाम् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥

सायणभाष्यम्

अश्वावन्तम् बहुभिरश्वैरुपेतं रथिनं रथवन्तं वीरवन्तं वीरैः पुरुषैरुपेतं सहस्रिणं सहस्रवन्तं शतिनं शतवन्तम् । असंख्यातगवादियुक्तमित्यर्थः। भद्रव्रातं भद्रगणं कल्याण्यैः सेवकैः परिवृतं विप्रवीरं विप्रैर्वीरैश्चोपेतं स्पर्षां सर्वस सम्भक्तारं वाजं बलवन्तं हे इन्द्र। शिष्टमुक्तं॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः