मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४८, ऋक् २

संहिता

अ॒हमिन्द्रो॒ रोधो॒ वक्षो॒ अथ॑र्वणस्त्रि॒ताय॒ गा अ॑जनय॒महे॒रधि॑ ।
अ॒हं दस्यु॑भ्य॒ः परि॑ नृ॒म्णमा द॑दे गो॒त्रा शिक्ष॑न्दधी॒चे मा॑त॒रिश्व॑ने ॥

पदपाठः

अ॒हम् । इन्द्रः॑ । रोधः॑ । वक्षः॑ । अथ॑र्वणः । त्रि॒ताय॑ । गाः । अ॒ज॒न॒य॒म् । अहेः॑ । अधि॑ ।
अ॒हम् । दस्यु॑ऽभ्यः । परि॑ । नृ॒म्णम् । आ । द॒दे॒ । गो॒त्रा । शिक्ष॑न् । द॒धी॒चे । मा॒त॒रिश्व॑ने ॥

सायणभाष्यम्

आद्यपादस्येतिहासमाहुः। अथर्वणम् दध्यञ्चं मधुविद्यावन्तमिन्द्र आगत्य मधुविद्यां कस्य चिन्न ब्रूया इति नियमितवान्। यदि ब्रूयस्ते शिरो हरामीत्युक्तवान्। स चाथर्वणॊय़्श्विभ्यामुवाच। इदं वै तन्मधु दध्यङ्गाथर्वणोऽश्विभ्यामुवाच। शत १४-५-५-१६। अश्वस्य शीर्ष्णा प्र यदीमुवाच। इ/ १-११६-१२। इति हि श्रुतिः। स चेन्द्र आगत्य दधीचः शिरोऽहरदिति तत्रोच्यते। इन्द्रोऽहमथर्वणॊफ़्ऽधर्वणः पुत्रस्य दधीचो वक्षः। तदुपलक्षितं शिर इत्यर्थः। तस्य रोधो रोधकोहर्तास्मि। तथा त्रितायैतन्नामकायाप्त्याय कूपपतितायोद्धरणार्थमहेर्मेघस्याध्युपरि गा उदकान्यजनयम् । उदपादयम् । त्रितस्य कूपपतिस्येन्द्रं प्रत्युद्धरण प्रार्थनं सं मा तपन्त्यभितः। ऋ. १०-३३-२। इत्यत्र प्रतिपादितम् । तथाहं दस्युभ्य उपक्षपयितृभ्यः शतृभ्यः सकाशान्नृम्णं धनमाददे। आदत्तवानस्मि। किं कुर्वन्। गोत्रा गवामुदकानां रक्षकान्मेघाञ्युक्षन् विनयन्। किमर्थम् । मातरिश्वने मातरिश्वनः पुत्राय दधीच एतन्नामकायर्षये वर्षकामाय प्रवर्षयितुमिच्छन्॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः