मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४८, ऋक् ३

संहिता

मह्यं॒ त्वष्टा॒ वज्र॑मतक्षदाय॒सं मयि॑ दे॒वासो॑ऽवृज॒न्नपि॒ क्रतु॑म् ।
ममानी॑कं॒ सूर्य॑स्येव दु॒ष्टरं॒ मामार्य॑न्ति कृ॒तेन॒ कर्त्वे॑न च ॥

पदपाठः

मह्य॑म् । त्वष्टा॑ । वज्र॑म् । अ॒त॒क्ष॒त् । आ॒य॒सम् । मयि॑ । दे॒वासः॑ । अ॒वृ॒ज॒न् । अपि॑ । क्रतु॑म् ।
मम॑ । अनी॑कम् । सूर्य॑स्यऽइव । दु॒स्तर॑म् । माम् । आर्य॑न्ति । कृ॒तेन॑ । कर्त्वे॑न । च॒ ॥

सायणभाष्यम्

मह्यं मदर्थं त्वष्टा देव आयसमयोमयं वज्रमायुधमतक्षत्। सम्पादितवान्। देवा मयि विषये क्रतुं स्वविरोधिहननरूपं कर्माप्यवृजन्। समपादयन्। ममानीकं सेनासमूहं सूर्यानीकमिव दुष्टरम् । अन्येन तुरीतुमशक्यम् । मामेव कृतेन कर्मणा कर्त्वेनेतः परं कर्तव्येन वृत्रवधादि रूपेणार्यन्ति। गच्छन्ति। आर्यतिर्गतिकर्मा। यद्वा। आर्यमीश्वरं कुर्वते॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः