मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४८, ऋक् ४

संहिता

अ॒हमे॒तं ग॒व्यय॒मश्व्यं॑ प॒शुं पु॑री॒षिणं॒ साय॑केना हिर॒ण्यय॑म् ।
पु॒रू स॒हस्रा॒ नि शि॑शामि दा॒शुषे॒ यन्मा॒ सोमा॑स उ॒क्थिनो॒ अम॑न्दिषुः ॥

पदपाठः

अ॒हम् । ए॒तम् । ग॒व्यय॑म् । अश्व्य॑म् । प॒शुम् । पु॒री॒षिण॑म् । साय॑केन । हि॒र॒ण्यय॑म् ।
पु॒रु । स॒हस्रा॑ । नि । शि॒शा॒मि॒ । दा॒शुषे॑ । यत् । मा॒ । सोमा॑सः । उ॒क्थिनः॑ । अम॑न्दिषुः ॥

सायणभाष्यम्

अहमेतं गव्ययं गोमयमश्व्यमश्वमयं हिरण्ययं हिरण्यालङ्कारोपेतं पुरीषिणम् । पुरीशमुदकं क्षीररूपं तद्वन्तं पशुं शत्रुसम्बन्धिनम् । जात्येकवचनम् । पशुसङ्घमित्यर्थः। तम्। सायकेनायुधेनाजयम्। तथा पुरु पुरूणि सहस्रा सहस्राणि शस्त्राणि नि शिशामि संस्करोमि दाशुशे हर्विर्दत्तवते यजमानाय। वैरिनाशायेत्यर्थः। कदेति उच्यते। यद्य दा मा मां सोमासः सोमा उक्थिनः शस्त्रोपेताः सन्तः अथवा सोमेन शस्त्रैश्चोपेता यजमाना आमन्दिषुः तर्पयन्ति॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः