मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४८, ऋक् ५

संहिता

अ॒हमिन्द्रो॒ न परा॑ जिग्य॒ इद्धनं॒ न मृ॒त्यवेऽव॑ तस्थे॒ कदा॑ च॒न ।
सोम॒मिन्मा॑ सु॒न्वन्तो॑ याचता॒ वसु॒ न मे॑ पूरवः स॒ख्ये रि॑षाथन ॥

पदपाठः

अ॒हम् । इन्द्रः॑ । न । परा॑ । जि॒ग्ये॒ । इत् । धन॑म् । न । मृ॒त्यवे॑ । अव॑ । त॒स्थे॒ । कदा॑ । च॒न ।
सोम॑म् । इत् । मा॒ । सु॒न्वन्तः॑ । या॒च॒त॒ । वसु॑ । न । मे॒ । पू॒र॒वः॒ । स॒ख्ये । रि॒षा॒थ॒न॒ ॥

सायणभाष्यम्

इन्द्रो धनस्य सर्वस्य स्वाम्यहं धनमात्मीयं न परा जिग्य इत्। नैव पराभावयामि। मदीयं धनं न पराभूयत इत्यर्थः। किञ्चाहं मृत्यवे सर्वेषां मारकाय कदा चन कदापि नाव तस्थे। नावस्थितो भवामि। इन्द्रभक्ता न मृत्युभाजो भवन्ति किल किमु वक्तव्यमिन्द्रस्य मृत्युविरहे। यस्मादेवं तस्मात्सोमं सुन्वन्तो हे यजमानाः वसु युष्मदभिमतं धनं मेन्मामेव याचत। हे पूरवो मनुष्याः मे सख्ये न रिषाथन। मा रिष्टा भवथ। मत्सख्यं मा विनाशयत॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः