मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४८, ऋक् ६

संहिता

अ॒हमे॒ताञ्छाश्व॑सतो॒ द्वाद्वेन्द्रं॒ ये वज्रं॑ यु॒धयेऽकृ॑ण्वत ।
आ॒ह्वय॑मानाँ॒ अव॒ हन्म॑नाहनं दृ॒ळ्हा वद॒न्नन॑मस्युर्नम॒स्विनः॑ ॥

पदपाठः

अ॒हम् । ए॒तान् । शाश्व॑सतः । द्वाऽद्वा॑ । इन्द्र॑म् । ये । वज्र॑म् । यु॒धये॑ । अकृ॑ण्वत ।
आ॒ऽह्वय॑मानान् । अव॑ । हन्म॑ना । अ॒ह॒न॒म् । दृ॒ळ्हा । वद॑न् । अन॑मस्युः । न॒म॒स्विनः॑ ॥

सायणभाष्यम्

अहमिन्द्र एतान्वक्ष्यमाणाञ्याश्वसतो भृशं प्राणतः प्रवृद्धबलाञ्शत्रून् द्वा द्वा द्वौ द्वौ। युग्मभूतानित्यर्थः। तानहनमिति सम्बन्धः। एतानित्युक्तं कानित्याह। ये शत्रव इन्द्रं शत्रूणां दारकम् । इन्द्रः शत्रूणां दारयितेति निरुक्तम् । १०-८। ईदृशं वज्रं बलिनं यद्वा व्रजवन्तं युधये युद्धायाकृण्वत अकुर्वत। तानेतानित्यर्थः। पुनः कीदृशान्। आह्वयमानान् एहि युध्यस्वेत्याह्वयतः शत्रून् नमस्विनो नमनवतो बलान्नमयित्वानमस्युरप्रनतिशीलः सन् दृळ्हा दृधानि भयजनकानि स्थिराणि वचनानि वदन्नहनं हतवानस्मि॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः