मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४८, ऋक् ७

संहिता

अ॒भी॒३॒॑दमेक॒मेको॑ अस्मि नि॒ष्षाळ॒भी द्वा किमु॒ त्रयः॑ करन्ति ।
खले॒ न प॒र्षान्प्रति॑ हन्मि॒ भूरि॒ किं मा॑ निन्दन्ति॒ शत्र॑वोऽनि॒न्द्राः ॥

पदपाठः

अ॒भि । इ॒दम् । एक॑म् । एकः॑ । अ॒स्मि॒ । नि॒ष्षाट् । अ॒भि । द्वा । किम् । ऊं॒ इति॑ । त्रयः॑ । क॒र॒न्ति॒ ।
खले॑ । न । प॒र्षान् । प्रति॑ । ह॒न्मि॒ । भूरि॑ । किम् । मा॒ । नि॒न्द॒न्ति॒ । शत्र॑वः । अ॒नि॒न्द्राः ॥

सायणभाष्यम्

अहमिदमिदानीमेकं शत्रुमेकोऽसहाय एव सन्नभ्यस्मि। अभिभवामि। किञ्च निष्षाट् सपत्नान्निःषहमाणॊऽहं द्वा द्वावप्यसह्यौ शत्रू अभ्यस्मि। किमु किं वा त्रयः शत्रवः करन्ति। कुर्वन्ति। तानप्यभिभवामीत्यर्थः। किं बहुना। खले न खलनिष्पादने यथा जीर्णव्रीह्यादिस्तंबाननायासेन प्रतिहन्ति कर्षकः तद्वत्पर्षान्निष्थुरान्भूरि बहून्यत्रून्प्रति हन्मि। मा मामनिन्द्रा इन्द्ररहिता इन्द्रमजानन्त इन्द्रविरोधिनः शत्रवो मामिन्द्रं किं निन्दन्ति। निन्दितुमशक्ता इत्यर्थः। अत्राभिभवामीत्यादि निरुक्तं द्रष्टव्यम् । नि. ३-१०॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः