अ॒हं गु॒ङ्गुभ्यो॑ अतिथि॒ग्वमिष्क॑र॒मिषं॒ न वृ॑त्र॒तुरं॑ वि॒क्षु धा॑रयम् ।
यत्प॑र्णय॒घ्न उ॒त वा॑ करञ्ज॒हे प्राहं म॒हे वृ॑त्र॒हत्ये॒ अशु॑श्रवि ॥
अ॒हम् । गु॒ङ्गुऽभ्यः॑ । अ॒ति॒थि॒ऽग्वम् । इष्क॑रम् । इष॑म् । न । वृ॒त्र॒ऽतुर॑म् । वि॒क्षु । धा॒र॒य॒म् ।
यत् । प॒र्ण॒य॒ऽघ्ने । उ॒त । वा॒ । क॒र॒ञ्ज॒ऽहे । प्र । अ॒हम् । म॒हे । वृ॒त्र॒ऽहत्ये॑ । अशु॑श्रवि ॥
अहमिन्द्रो गुङ्गुभ्य एतन्नामकेभ्यो जनपदेभ्यो रक्षणायातिथिग्वमतिथिगोः पुत्रं दिवोदासमृषिमिष्करं निष्कर्तारं वृत्रतुरं शत्रूणां हिंसकं विक्षु प्रजासु मध्य इषं नान्नमिव तासामन्नं यथा भोगाय भवति तद्वदन्न स्थानीयं धारयं। धारितवानस्मि। कदेति उच्यते। यद्यदा पर्णयघ्ने पर्णयनामकस्यासुरस्य हननवति उतापि च करञ्जह एतन्नामकस्य हननोपेते महे महति वृत्रहत्ये सङ्ग्रामेऽशुश्रवि श्रुतोऽभुवं॥८॥