मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४९, ऋक् १

संहिता

अ॒हं दां॑ गृण॒ते पूर्व्यं॒ वस्व॒हं ब्रह्म॑ कृणवं॒ मह्यं॒ वर्ध॑नम् ।
अ॒हं भु॑वं॒ यज॑मानस्य चोदि॒ताय॑ज्वनः साक्षि॒ विश्व॑स्मि॒न्भरे॑ ॥

पदपाठः

अ॒हम् । दा॒म् । गृ॒ण॒ते । पूर्व्य॑म् । वसु॑ । अ॒हम् । ब्रह्म॑ । कृ॒ण॒व॒म् । मह्य॑म् । वर्ध॑नम् ।
अ॒हम् । भु॒व॒म् । यज॑मानस्य । चो॒दि॒ता । अय॑ज्वनः । सा॒क्षि॒ । विश्व॑स्मिन् । भरे॑ ॥

सायणभाष्यम्

अहं दामित्येकादशर्चं सप्तमं सूक्तम् । वैकुण्ठ एवर्षिर्देवता च। द्वितीयैकादश्यौ त्रिष्टुभौ। शिष्टा जगत्यः। अनुक्रान्तं च। अहं दामन्त्योपाद्येचेति। द्वितीयै रात्रिपर्याये मैत्रावरुणस्येदं सूक्तम् । सूत्रितं च। अहं दां पाता सुतमिन्द्रो अस्तु सोमम्। आ. ६-४। इति॥

अहमिन्द्रो गृणते स्तुवते पूर्व्यं मुख्यं वसु धनं दाम् । अदाम् । अहमेव ब्रह्म परिवृहं कर्म स्तुतिलक्शणं मह्यम् वर्धनं कृणवम् । करोमि। स्तोतुः सम्बन्धि स्तोत्रं तस्मै धनं प्रयच्छन् महम्येव वर्धनं करोमीत्यर्थः। तथाहं याजमानस्य मामुद्दिश्य यष्टुर्धनस्य चोदिता प्रेरको भुवम् । भवामि। अयज्वनोऽयष्टुः। अयष्टारमित्यर्थः। तं विश्वस्मिन्भरे सर्वस्मिन्नपि सङ्ग्रामे साक्षि। अभिभवामि॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः