मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४९, ऋक् ३

संहिता

अ॒हमत्कं॑ क॒वये॑ शिश्नथं॒ हथै॑र॒हं कुत्स॑मावमा॒भिरू॒तिभि॑ः ।
अ॒हं शुष्ण॑स्य॒ श्नथि॑ता॒ वध॑र्यमं॒ न यो र॒र आर्यं॒ नाम॒ दस्य॑वे ॥

पदपाठः

अ॒हम् । अत्क॑म् । क॒वये॑ । शि॒श्न॒थ॒म् । हथैः॑ । अ॒हम् । कुत्स॑म् । आ॒व॒म् । आ॒भिः । ऊ॒तिऽभिः॑ ।
अ॒हम् । शुष्ण॑स्य । श्नथि॑ता । वधः॑ । य॒म॒म् । न । यः । र॒रे । आर्य॑म् । नाम॑ । दस्य॑वे ॥

सायणभाष्यम्

अहमिन्द्रोऽत्कमाच्छादकं शत्रुपुत्रं कवय उशसन ऋषये तस्य सुखार्थं हथैर्बहुप्रकारैः प्रहारैस्तत्साधनैरायुधैर्वा शिश्नथम् । ताइतवानस्मि। श्नथतिर्वधकर्मा। किञ्चाहं कुत्समेतन्नामकमृषिमाभिरूतिभिर्वधादिरूपैः। कुत्साय शुष्ण मशुषं नि बर्हीः। ऋ. ४-१६-१२। इत्यादि मन्त्रान्तरम्। रक्षणैरावम् । अरक्षम् । पूर्वमेव कृतान्यपि रक्षणानीदानीमिव कृतानीत्यनुवदति। कुत्सार्थं शुष्णस्यैतन्नामकस्यासुरस्य श्नथिता हिंसिता। तस्य हननायेत्यर्थः। वधर्वज्रं यमम् । प्रहरणाय नियमितवानस्मि। अपि चाहमार्यमार्यसम्बन्धि। आर्यानां देयमित्यर्थः। तादृशं नाम। उदकनामैतत्। नामकमुदकं दस्यवे शत्रव उपक्षपयित्रे न ररे। न दत्तवानस्मि। यद्वा। आर्यं पूज्यमित्यसाधारनं नाम दस्यवे न दत्तवानस्मि। अत्रेन्द्रस्यात्मस्तुतौ कुत्सरक्शणशुष्णवाधादिकं आवः कुत्समिन्द्रयस्मिञ्चाकन्। ऋ. १-३३-१४। शुष्णं पिप्रुं कुयवं व्रुत्रमिन्द्र। ऋ. १-१०३-८। इत्यादिषु बहुधा प्रापञ्चितम्। अतोऽत्र ग्रन्थविस्तरभयान्न लिख्यते॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः