मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४९, ऋक् ४

संहिता

अ॒हं पि॒तेव॑ वेत॒सूँर॒भिष्ट॑ये॒ तुग्रं॒ कुत्सा॑य॒ स्मदि॑भं च रन्धयम् ।
अ॒हं भु॑वं॒ यज॑मानस्य रा॒जनि॒ प्र यद्भरे॒ तुज॑ये॒ न प्रि॒याधृषे॑ ॥

पदपाठः

अ॒हम् । पि॒ताऽइ॑व । वे॒त॒सून् । अ॒भिष्ट॑ये । तुग्र॑म् । कुत्सा॑य । स्मत्ऽइ॑भम् । च॒ । र॒न्ध॒य॒म् ।
अ॒हम् । भु॒व॒म् । यज॑मानस्य । रा॒जनि॑ । प्र । यत् । भ॒रे॒ । तुज॑ये । न । प्रि॒या । आ॒ऽधृषे॑ ॥

सायणभाष्यम्

अहमिन्द्रः पितेव पिता पुत्रायेव स यथा तस्मै निर्वाहार्थमभिमतम् प्रदेशं प्रसाधयति तद्वद्वेतसूनेतन्नामकाञ्जनपदानभिष्टयेऽभीच्छते कुत्साय महर्षये तुग्रं स्मदिभं च रन्धयम् । वशमनयम् । अहं यजमानस्य राजनि राजनार्थं भुवम् । आभवम् । समर्थ इति शेषः। यद्यस्मात्तुजये न पुत्रायेव पिता तस्मै यजमानायाधृषे शत्रूणां धर्षणाय प्रिया प्रियाणि प्र भरे प्रभारामि तस्माद्यजमानस्य राजनि भुवमिति सम्बन्धः॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः