मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४९, ऋक् ५

संहिता

अ॒हं र॑न्धयं॒ मृग॑यं श्रु॒तर्व॑णे॒ यन्माजि॑हीत व॒युना॑ च॒नानु॒षक् ।
अ॒हं वे॒शं न॒म्रमा॒यवे॑ऽकरम॒हं सव्या॑य॒ पड्गृ॑भिमरन्धयम् ॥

पदपाठः

अ॒हम् । र॒न्ध॒य॒म् । मृग॑यम् । श्रु॒तर्व॑णे । यत् । मा॒ । अजि॑हीत । व॒युना॑ । च॒न । आ॒नु॒षक् ।
अ॒हम् । वे॒शम् । न॒म्रम् । आ॒यवे॑ । अ॒क॒र॒म् । अ॒हम् । सव्या॑य । पट्ऽगृ॑भिम् । अ॒र॒न्ध॒य॒म् ॥

सायणभाष्यम्

अहमिन्द्रो मृगयमेतन्नामकमसुरं त्रुतर्वण एतन्नामकाय महर्षये रन्धयम् । रध्यतिर्वशगमने। वशमनयम् । यद्यस्माच्छ्रुतर्वा मा माम जिहीत। ओहाङ् गतौ। आगच्छत्। तदेवोच्यते। वयुना प्रज्ञानेन स्तोत्रेणानुषगनुषक्तोऽभूत्। चनेति पूरणः। अहं वेशमेतन्नामानं नम्रं प्रह्वं करम्। अकार्षम्। करोतेर्लुङि कृमृदृरुहिभ्यश्छन्दसीति च्लेरङ्। आभावश्छान्दसः। अहं सव्यायैतन्नामकाय पगृभिमेतन्नामकमरन्धयम्॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः