अ॒हं स यो नव॑वास्त्वं बृ॒हद्र॑थं॒ सं वृ॒त्रेव॒ दासं॑ वृत्र॒हारु॑जम् ।
यद्व॒र्धय॑न्तं प्र॒थय॑न्तमानु॒षग्दू॒रे पा॒रे रज॑सो रोच॒नाक॑रम् ॥
अ॒हम् । सः । यः । नव॑ऽवास्त्वम् । बृ॒हत्ऽर॑थम् । सम् । वृ॒त्राऽइ॑व । दास॑म् । वृ॒त्र॒ऽहा । अरु॑जम् ।
यत् । व॒र्धय॑न्तम् । प्र॒थय॑न्तम् । आ॒नु॒षक् । दू॒रे । पा॒रे । रज॑सः । रो॒च॒ना । अक॑रम् ॥
अहमिन्द्रः सोऽस्मि योऽहं नववास्त्वं बृहद्रथं च वृत्रेववृत्रमिव दासमुपक्शपयितारमिव नववास्त्वं बृहद्रथं चारुजम् । अहं भग्नमकरवम् । रुजो भङ्गे। यद्यदा वर्धयन्तं वर्धमानं प्रथयन्तं प्रथमानं चोभौ शत्रू अनुषगानुषक्तः सन्रोचना रोचनस्य रजसो लोकस्य दूरे पारेऽकरं कृतवानस्मि॥६॥