मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४९, ऋक् ७

संहिता

अ॒हं सूर्य॑स्य॒ परि॑ याम्या॒शुभि॒ः प्रैत॒शेभि॒र्वह॑मान॒ ओज॑सा ।
यन्मा॑ सा॒वो मनु॑ष॒ आह॑ नि॒र्णिज॒ ऋध॑क्कृषे॒ दासं॒ कृत्व्यं॒ हथै॑ः ॥

पदपाठः

अ॒हम् । सूर्य॑स्य । परि॑ । या॒मि॒ । आ॒शुऽभिः॑ । प्र । ए॒त॒शेभिः॑ । वह॑मानः । ओज॑सा ।
यत् । मा॒ । सा॒वः । मनु॑षः । आह॑ । निः॒ऽनिजे॑ । ऋध॑क् । कृ॒षे॒ । दास॑म् । कृत्व्य॑म् । हथैः॑ ॥

सायणभाष्यम्

अहं सूर्यस्य देवस्याशुभिः शीघ्रगामिभिरेतशेभिरेतशवर्णैरश्वैर्वहमान उह्यमान ओजसात्मीयेन बलेन प्रकर्षेण परि यामि। परिगच्छामि सूर्यात्मना। किञ्च यद्यदा मा मां मनुषो मनुष्यस्य सावः सोमाभिषव आह ब्रूते। आह्वयतीत्यर्थः। किमर्थमाह। निर्णिजे। निर्णिगिति रूपनाम। यज्ञस्वरुपायेत्यर्थः। तदानीं कृत्व्यं कर्तव्यम् । हन्तव्यमित्यर्थः। दासमुपक्षपयितारं शत्रुं हथैर्हननसाधनैरृधक्कृषे। पृथक्करोमि। ऋधगित्यव्ययं पृघगर्थे॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः