मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४९, ऋक् ८

संहिता

अ॒हं स॑प्त॒हा नहु॑षो॒ नहु॑ष्टर॒ः प्राश्रा॑वयं॒ शव॑सा तु॒र्वशं॒ यदु॑म् ।
अ॒हं न्य१॒॑न्यं सह॑सा॒ सह॑स्करं॒ नव॒ व्राध॑तो नव॒तिं च॑ वक्षयम् ॥

पदपाठः

अ॒हम् । स॒प्त॒ऽहा । नहु॑षः । नहुः॑ऽतरः । प्र । अ॒श्र॒व॒य॒म् । शव॑सा । तु॒र्वश॑म् । यदु॑म् ।
अ॒हम् । नि । अ॒न्यम् । सह॑सा । सहः॑ । क॒र॒म् । नव॑ । व्राध॑तः । न॒व॒तिम् । च॒ । व॒क्ष॒य॒म् ॥

सायणभाष्यम्

अहं सप्तसङ्ख्याकानां पुरां शत्रूणां वा हन्ता। सप्त यत्पुरः शर्म शारदीः। ऋ. १-१७४-२। इत्युक्तम्। यद्वा। सप्त नमुच्यादीन् हतवान्। किञ्च नहुषो बन्धकस्यापि नहुष्टरो बन्धकतरोऽहं शवसा बलेन तुर्वशं यदुं च प्राश्रावयम्। शत्रुसम्बन्धिगवादिप्रदानेन श्रावितवानस्मि। तौ यथा लोके श्रुतौ भवतः तथाकार्षमित्यर्थः। किञ्चाहमन्यं चास्मत्स्तोतारं सहसा बलेन सहो बलिनं करम् । अकार्षम्। करोतेर्लुङे कृमृदृरुहीति च्लेरङ्। आभाव आर्षः। किञ्च नव नवसङ्ख्याका नवतिं च नवतिस~ख्याकाश्च। नवोत्तरनवतिमित्यर्थः। कथं भूताः। व्राधतो वर्धमानाः। वक्षयम् । अवहम् । व्यनाशयमित्यर्थः॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः