मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४९, ऋक् ९

संहिता

अ॒हं स॒प्त स्र॒वतो॑ धारयं॒ वृषा॑ द्रवि॒त्न्व॑ः पृथि॒व्यां सी॒रा अधि॑ ।
अ॒हमर्णां॑सि॒ वि ति॑रामि सु॒क्रतु॑र्यु॒धा वि॑दं॒ मन॑वे गा॒तुमि॒ष्टये॑ ॥

पदपाठः

अ॒हम् । स॒प्त । स्र॒वतः॑ । धा॒र॒य॒म् । वृषा॑ । द्र॒वि॒त्न्वः॑ । पृ॒थि॒व्याम् । सी॒राः । अधि॑ ।
अ॒हम् । अर्णां॑सि । वि । ति॒रा॒मि॒ । सु॒ऽक्रतुः॑ । यु॒धा । वि॒द॒म् । मन॑वे । गा॒तुम् । इ॒ष्टये॑ ॥

सायणभाष्यम्

वृषा वर्षकोऽहं सप्त स्रवतः स्रवन्तीर्नदीर्धारयम् । अधारयम् । कीदृश्यस्ताः। द्रवित्न्वो द्रवन्तीः। वा छन्दसीति पूर्वसवर्णदीर्घाभावः। सीराः सरणशीलाः। कुत्र। पृथिव्याम् । सुक्रतुः शोभनकर्माहमर्णांस्युदकानि वि तिरामि। प्रयच्छामि। किञ्च मनवे मनुष्यायेष्टये तस्य गमनाय गातुं मार्गं युधा सम्प्रहारेण। निरोधपरिहारेणेत्यर्थः। विदम् । अलभम्। प्रायच्छमित्यर्थः। विदेर्लाभार्थस्य पुषादित्वात्। पा. ३-१-५५। च्लेरङ्॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः