मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४९, ऋक् १०

संहिता

अ॒हं तदा॑सु धारयं॒ यदा॑सु॒ न दे॒वश्च॒न त्वष्टाधा॑रय॒द्रुश॑त् ।
स्पा॒र्हं गवा॒मूध॑स्सु व॒क्षणा॒स्वा मधो॒र्मधु॒ श्वात्र्यं॒ सोम॑मा॒शिर॑म् ॥

पदपाठः

अ॒हम् । तत् । आ॒सु॒ । धा॒र॒य॒म् । यत् । आ॒सु॒ । न । दे॒वः । च॒न । त्वष्टा॑ । अधा॑रयत् । रुश॑त् ।
स्पा॒र्हम् । गवा॑म् । ऊधः॑ऽसु । व॒क्षणा॑सु । आ । मधोः॑ । मधु॑ । श्वात्र्य॑म् । सोम॑म् । आ॒ऽशिर॑म् ॥

सायणभाष्यम्

अहं तत्प्रसिद्धं पय आसु गोषु धारयम् । धृतवानस्मि। धृञ् धारणे। ण्यन्तस्य लङे रूपम् । यत्पय आसु गोषु देवश्चन त्वष्टा देवतिल्पी सूर्यो वा देवो न चनाधारयत् धर्तुं नाशक्नोत्। कीदृक् पयोऽधारयमिति चेत् उच्यते। रुशद्दीप्तं स्वार्हं स्पृहणियम् । किषु प्रदेशेष्विति उच्यते। गवामूधः सु उद्धततरेषु गवां पयोधारणप्रदेशेषु। किञ्च मधूदकं वक्षणासु नदीनामैतत्। वहनशीलासु नदीषु धारयामीत्यनुषज्यते। नद्युदकधारणस्यावधिरुच्यते। आ मधोरोदकोत्पत्तेः। आगामिवर्षसमयपर्यन्तमित्यर्थः। कीदृशं मध्विति तदुच्यते। श्वात्र्यम्। श्वात्रमिति क्षिप्रनाम। क्षिप्रगमनार्हम्। यद्वा। श्यात्र्यमित्युत्तरत्र सम्बध्यते। श्वात्र्यं सुखावहं सोमं प्रत्याशिरं धारयम्॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः