मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५०, ऋक् ५

संहिता

अवा॒ नु कं॒ ज्याया॑न्य॒ज्ञव॑नसो म॒हीं त॒ ओमा॑त्रां कृ॒ष्टयो॑ विदुः ।
असो॒ नु क॑म॒जरो॒ वर्धा॑श्च॒ विश्वेदे॒ता सव॑ना तूतु॒मा कृ॑षे ॥

पदपाठः

अव॑ । नु । क॒म् । ज्याया॑न् । य॒ज्ञऽव॑नसः । म॒हीम् । ते॒ । ओमा॑त्राम् । कृ॒ष्टयः॑ । वि॒दुः॒ ।
असः॑ । नु । क॒म् । अ॒जरः॑ । वर्धाः॑ । च॒ । विश्वा॑ । इत् । ए॒ता । सव॑ना । तू॒तु॒मा । कृ॒षे॒ ॥

सायणभाष्यम्

हे इन्द्र त्व ज्यायान् प्रशस्यतरस्त्वं यज्ञवनसः सम्भक्तयज्ञान् स्तोतॄन् नु कं क्षिप्रमव। रक्ष। अध्येतारे नु कमिति पदद्वयं कुर्वन्ति तथापि हिकं नुकमित्यादीनि नवोत्तराणि पदानीत्युक्तवानास्काचार्यः। अनि. ३-१२। अतः केवलानां हिकं मित्येवमादीनां यावानर्थः स एव विशिष्टानामपि। तैत्तिरीय अप्येकमेव पदं कुर्वन्ति। अवेत्युक्तम् । इन्द्रस्यावनप्रसिद्धिं दर्शयति। हे इन्द्र ते तव्ॐआत्रां रक्षनं महीं महद्विदुः कृष्टयो मनुष्या ऋष्टयः। ओमात्राम् । अम गत्यादिषु। औणादिक आत्रन्प्रत्ययः। छान्दस उमादेशः। किञ्च त्वमजरो जररहितोऽसः। भव। निकं क्षिप्रं वर्धाश्च। वर्धस्व च हविराज्यादिना। किञ्च वित्वेत् सर्वाण्यप्येतानि सवना सवनानि तूतुमा तूर्णानि कृशे। करोषि। कृशे। छान्दसे लिटि छन्दसि वेति द्विर्वचनाभावः॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः