मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५१, ऋक् ३

संहिता

ऐच्छा॑म त्वा बहु॒धा जा॑तवेद॒ः प्रवि॑ष्टमग्ने अ॒प्स्वोष॑धीषु ।
तं त्वा॑ य॒मो अ॑चिकेच्चित्रभानो दशान्तरु॒ष्याद॑ति॒रोच॑मानम् ॥

पदपाठः

ऐच्छा॑म । त्वा॒ । ब॒हु॒धा । जा॒त॒ऽवे॒दः॒ । प्रऽवि॑ष्टम् । अ॒ग्ने॒ । अ॒प्ऽसु । ओष॑धीषु ।
तम् । त्वा॒ । य॒मः । अ॒चि॒के॒त् । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । द॒श॒ऽअ॒न्त॒रु॒ष्यात् । अ॒ति॒ऽरोच॑मानम् ॥

सायणभाष्यम्

एवमग्निना पृष्टा देवा अग्निं ब्रुवन्ति। हे जातवेदो जातप्रज्ञाग्ने त्वा त्वामन्वैच्छाम। कीदृशं त्वाम्। अप्सूदकेष्वोषधीषु च बहुधा प्रविष्टम्। अन्विष्य च तं तादृशं प्रविष्टं त्वा त्वां यमो देवोऽचिकेत् ज्ञातवान् हे चित्रभानो चायनीयरश्मे। कुत्र स्थितं ज्ञातवानिति तदुच्यते। दशान्तरुष्यात्। अन्तरुष्यं गूढमावासस्थानं तच्च स्थानं दशस~ख्योपेतम्। तादृशं स्थानमतिरोचमानमतीत्य प्रकाशमानम्। अग्नेर्हि गूढानि दश स्थानानि भवन्ति पृघिव्यादयस्त्रयो ओका अग्निवाय्वादित्यास्त्रयो देवा आप ओषधयो वनस्पतयः प्राणिशरीरमिति दश स्थानानि॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०