मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५१, ऋक् ९

संहिता

तव॑ प्रया॒जा अ॑नुया॒जाश्च॒ केव॑ल॒ ऊर्ज॑स्वन्तो ह॒विषः॑ सन्तु भा॒गाः ।
तवा॑ग्ने य॒ज्ञो॒३॒॑ऽयम॑स्तु॒ सर्व॒स्तुभ्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्रः ॥

पदपाठः

तव॑ । प्र॒ऽया॒जाः । अ॒नु॒ऽया॒जाः । च॒ । केव॑ले । ऊर्ज॑स्वन्तः । ह॒विषः॑ । स॒न्तु॒ । भा॒गाः ।
तव॑ । अ॒ग्ने॒ । य॒ज्ञः । अ॒यम् । अ॒स्तु॒ । सर्वः॑ । तुभ्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिशः॑ । चत॑स्रः ॥

सायणभाष्यम्

एवमग्निना याच्यमाना देवाः प्रति ब्रुवते। हे अग्ने तव प्रयाजा अनुयाजाश्च केवलेऽसाधारणा ऊर्जस्वन्तो बलवन्तो हविषो भागाः सन्तु। हे अग्ने अयं सर्वो यज्ञश्च तवास्तु। तथा प्रदिशः प्रकृष्टा मुख्याश्चतस्रो दिशस्तुभ्यं नमन्ताम्। अत एहि हविर्वहेति शेषः॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११