मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५२, ऋक् २

संहिता

अ॒हं होता॒ न्य॑सीदं॒ यजी॑या॒न्विश्वे॑ दे॒वा म॒रुतो॑ मा जुनन्ति ।
अह॑रहरश्वि॒नाध्व॑र्यवं वां ब्र॒ह्मा स॒मिद्भ॑वति॒ साहु॑तिर्वाम् ॥

पदपाठः

अ॒हम् । होता॑ । नि । अ॒सी॒द॒म् । यजी॑यान् । विश्वे॑ । दे॒वाः । म॒रुतः॑ । मा॒ । जु॒न॒न्ति॒ ।
अहः॑ऽअहः । अ॒श्वि॒ना॒ । आध्व॑र्यवम् । वा॒म् । ब्र॒ह्मा । स॒म्ऽइत् । भ॒व॒ति॒ । सा । आऽहु॑तिः । वा॒म् ॥

सायणभाष्यम्

यजीयान् यष्टृतमोऽहं होता सन्न्यसीदम् । निषण्णओऽस्मि। निषदने तं निषण्णं विश्वे व्याप्ता मरुतो देवा जुनन्ति। प्रेरयन्ति हविर्वहनाय। हे अश्विना वां युवयोराध्वर्यवमहरहः प्रतिदिनं कर्तव्यमिति शेषः। आध्वर्यवं भवद्भ्यामनुज्ञातव्यमित्यर्थः। ब्रह्मा भवति भवतु। कः समित् समिद्धश्चन्द्रमाः। चन्द्रमा ब्रह्मा भवतु। किञ्च सा। स इत्यर्थः। स च समित् समिद्धश्चन्द्रमा वां युवयोर्होमार्थं वां युवाभ्याम् क्रियमाणायाध्वर्यव कर्मण आहुतिर्भवत्वित्यर्थः। सोमात्मको हि चन्द्रमा हूयते। एष वै सोमो राजेत्युपक्रम्य तदेवोभयं भवतीति हि च्छन्दोगब्राह्मणम् । अथवैवं योजना। याहुतिराध्वर्यवमनुष्थितवद्भ्यां होतव्या सा वां युवयोर्युवाभ्याम् भवति। भवतु। अध्वर्यवं वामित्यस्यैव विवरनमेतत्॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२