मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५२, ऋक् ३

संहिता

अ॒यं यो होता॒ किरु॒ स य॒मस्य॒ कमप्यू॑हे॒ यत्स॑म॒ञ्जन्ति॑ दे॒वाः ।
अह॑रहर्जायते मा॒सिमा॒स्यथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म् ॥

पदपाठः

अ॒यम् । यः । होता॑ । किः । ऊं॒ इति॑ । सः । य॒मस्य॑ । कम् । अपि॑ । ऊ॒हे॒ । यत् । स॒म्ऽअ॒ञ्जन्ति॑ । दे॒वाः ।
अहः॑ऽअहः । जा॒य॒ते॒ । मा॒सिऽमा॑सि । अथ॑ । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् ॥

सायणभाष्यम्

योऽयं होता स किः। को भवति। कीदृशो भवति। तस्य को व्यापार इत्यर्थः। तस्योत्तरमुच्यते। यमस्य मृत्योर्भीतः सन्निति शेशः। कमपि हुतमूहे। वहति। यद्वा। सर्वमृत्विग्जातं नियमयतिति यमो यजमानः। तस्य कमपि हुतमूहे। वहति देवान्प्रति। यत्समञ्जन्ति यद्धविः प्राप्नुवन्ति देवाः। किञ्चाग्निरहरहः प्रतिदिनमग्निहोत्रार्थं जायते। प्रादुर्भवति। तथा मासि मासि प्रतिमासं जायते पितृयज्ञार्थम् । एतत्कालद्वयमुपलक्षनं पक्शचतुर्मासषण्मास संवत्सरादीनाम् । अपरे पुनरेवमाहुः। अहरहः सूर्यात्मना जातते मासि मासि चन्द्रात्मनेति। अथ तमिममग्निं देवा दधिरे हव्यवाहम् । हविषां वोढारम् । एवमग्निरात्मानं स्वयमेवोक्तवान्॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२