मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५३, ऋक् २

संहिता

अरा॑धि॒ होता॑ नि॒षदा॒ यजी॑यान॒भि प्रयां॑सि॒ सुधि॑तानि॒ हि ख्यत् ।
यजा॑महै य॒ज्ञिया॒न्हन्त॑ दे॒वाँ ईळा॑महा॒ ईड्याँ॒ आज्ये॑न ॥

पदपाठः

अरा॑धि । होता॑ । नि॒ऽसदा॑ । यजी॑यान् । अ॒भि । प्रयां॑सि । सुऽधि॑तानि । हि । ख्यत् ।
यजा॑महै । य॒ज्ञिया॑न् । हन्त॑ । दे॒वान् । ईळा॑महै । ईड्या॑न् । आज्ये॑न ॥

सायणभाष्यम्

दर्शपूर्णमासयोः पुराराधीत्येषा जप्या। सूत्रमुदाहृतम्।

अयमग्निर्होता होमनिश्पादको यजीयान् यष्टृतमश्च सन्निपदावेद्यां निषदनेनाराधि। सिद्धोऽभूत्। आहुतियोग्योऽभूदित्यर्थः। तथाभूतोऽयं सुधितानि सुष्ठु निहितानि प्रयांसि चरुपुरॊडाशाद्यन्नान्यभि हि खत्। अभिचष्टे। सर्वतः पश्यति। हीति पादपुरणः। कया बुद्ध्येति। यज्ञियान्यष्टव्यानाहुतिभाजो देवान् हन्त शीघ्रमाज्येन याजमहै तथीड्यान् स्तुतिभाजो देवान् स्तुत्येळामहा इति बुद्ध्येति शेषः॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३