सा॒ध्वीम॑कर्दे॒ववी॑तिं नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्या॑म् ।
स आयु॒रागा॑त्सुर॒भिर्वसा॑नो भ॒द्राम॑कर्दे॒वहू॑तिं नो अ॒द्य ॥
सा॒ध्वीम् । अ॒कः॒ । दे॒वऽवी॑तिम् । नः॒ । अ॒द्य । य॒ज्ञस्य॑ । जि॒ह्वाम् । अ॒वि॒दा॒म॒ । गुह्या॑म् ।
सः । आयुः॑ । आ । अ॒गा॒त् । सु॒र॒भिः । वसा॑नः । भ॒द्राम् । अ॒कः॒ । दे॒वऽहू॑तिम् । नः॒ । अ॒द्य ॥
यस्मिन्यजमाने जीवति मृतशब्दो जायते तस्य सुरभिमतीष्टिः कर्तव्या। साध्वीमकरित्येषा तत्र याज्या। सूत्रितं च। अग्निर्होता न्यसिदद्यजीयान् साध्वीमकर्देववीतिं नो अद्य। आ. ३-१३। इति॥
अयमग्निरद्य नोऽस्माकं देववीतिं देवानामागमनवन्तं देवानां हविर्भक्षणोपेतं वा यज्ञं साध्वीमकः। साधुमकरोत्। वयं च यज्ञस्य जिह्वां गुह्यां गूढतरां जिह्वामविदाम। लब्धवन्तः स्म। अग्निर्हि यज्ञस्य जिह्वा तेन देवानां पानाज्जिह्वात्वेनोपचारः। स तादृशोऽग्निः सुरुभिः सुगन्ध आयुर्देवैर्दत्तमायुष्यं वसान आच्छादयन्नागात् आगच्छति। आगत्य च नोऽस्मदर्थं देवहूतिं देवानामाह्वानवन्तं यज्ञं भद्रामकः। कल्याणं कृतवान्। आद्येदानीम्॥३॥